Class 9 संस्कृत Chapter 2

Chapter 2 – सुखस्य मूलं धर्मः धर्मस्य मूलम् अर्थः

अध्याय-परिचय

“सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः” कक्षा 9 संस्कृत का द्वितीय पाठ है। इसमें धर्म, अर्थ और सुख के सम्बन्ध को समझाते हुए धन के न्यायपूर्ण अर्जन, उचित व्यय, बचत और निवेश का महत्त्व बताया गया है। पाठ विद्यार्थियों को आर्थिक अनुशासन, आर्थिक साक्षरता और आत्मनिर्भरता की भावना विकसित करने के लिए प्रेरित करता है।

Last updated: 01/09/2026 Complete Chapter Study Material

Quick Chapter Information

Class 9
Subject संस्कृत
Chapter 2
Difficulty Moderate

द्वितीयः पाठः — सुखस्य मूलं धर्मः धर्मस्य मूलम् अर्थः

अभ्यासाद् जायते सिद्धिः

1. एकपदेन उत्तरं लिखत

प्रश्नः उत्तरम्
(क) वास्तविकसुखस्य आधारः कः? धर्मः
(ख) कस्य अभावात् स्वकर्तव्यपालनं कठिनं भवति? पर्याप्तधनस्य
(ग) स्वस्थः आर्थिकव्यवहारः कतिविधः भवति? त्रिविधः
(घ) कीदृशः आर्थिकव्यवहारः कदापि न करणीयः? अनैतिकः
(ङ) स्वावलम्बनं कस्य मूलं वर्तते? स्वाभिमानस्य
(च) जलबिन्दुनिपातेन क्रमशः किं पूर्यते? घटः

2. पूर्णवाक्येन उत्तरं लिखत

प्रश्नः उत्तरम्
(क) “सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः” इतीदं प्रसिद्धं वाक्यं कस्मिन् ग्रन्थे प्राप्यते? “सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः” इति प्रसिद्धं वाक्यं कौटिल्यस्य अर्थशास्त्रे प्राप्यते।
(ख) सामान्यजीवने कासाम् आवश्यकतानां पूर्त्यर्थं धनम् आवश्यकम्? सामान्यजीवने अन्नं, वस्त्रम्, आवासः, शिक्षा, स्वास्थ्यसेवा चेत्यादीनां मूलभूतानाम् आवश्यकतानां पूर्त्यर्थं धनम् आवश्यकम्।
(ग) ब्राह्मे मुहूर्ते कयोः चिन्तनम् आवश्यकम्? ब्राह्मे मुहूर्ते धर्मार्थयोः चिन्तनम् आवश्यकम्।
(घ) जनः केन स्वावलम्बी भवति? सञ्चयस्य अभ्यासेन जनः स्वावलम्बी भवति।
(ङ) लघुलघुसञ्चयः अपि कालान्तरे केन रूपेण वर्धते? लघुलघुसञ्चयः अपि कालान्तरे महत्सम्पत्तिरूपेण वर्धते।

3. वाक्येन सह ग्रन्थस्य सम्मेलनं कुरुत

वाक्यम् ग्रन्थः
(क) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः। चाणक्यनीतिः — ४
(ख) ब्राह्मे मुहूर्ते चोत्थाय धर्ममर्थं च चिन्तयेत्। गरुडपुराणम् — १
(ग) सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्। मनुस्मृतिः — २
(घ) सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः। अर्थशास्त्रम् — ३

4. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत

वाक्यम् निर्मितः प्रश्नः
(क) सुखस्य मूलं धर्मः। सुखस्य मूलं किम्?
(ख) दिनस्य आरम्भे धर्मार्थयोः चिन्तनम् आवश्यकम्। दिनस्य आरम्भे कयोः चिन्तनम् आवश्यकम्?
(ग) सन्मार्गेण एव धनार्जनं करणीयम्। केन एव धनार्जनं करणीयम्?
(घ) अनैतिकः आर्थिकव्यवहारः कदापि न करणीयः। कीदृशः आर्थिकव्यवहारः कदापि न करणीयः?
(ङ) सङ्कटकाले स्वाभिमानिजनः अन्यजनस्य आर्थिकसहायतां नापेक्षते। सङ्कटकाले कः अन्यजनस्य आर्थिकसहायतां नापेक्षते?

5. उचितैः पदैः रिक्तस्थानानि पूरयत

धातुः एकवचनम् द्विवचनम् बहुवचनम्
विद् विद्यते विद्येते विद्यन्ते
लभ् लभते लभेते लभन्ते
अपेक्ष् अपेक्षते अपेक्षेते अपेक्षन्ते
वर्ध् वर्धते वर्धेते वर्धन्ते
सेव् सेवते सेवेते सेवन्ते
मोद् मोदते मोदेते मोदन्ते

6. अधोलिखितानां प्रश्नानां शुद्धं विकल्पं चिनुत

प्रश्नः सही विकल्प उत्तरम्
(क) “सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः” इत्यस्य मुख्य आशयः कः? धर्मस्य आधारः अर्थः, सुखस्य आधारः धर्मः।
(ख) गरुडपुराणे किम् उपदिष्टम् अस्ति? प्रभाते धर्मार्थयोः चिन्तनं करणीयम्।
(ग) “सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्” इत्यस्य तात्पर्यं किम्? अर्थशौचं सर्वोपरि, अन्यविधशौचेभ्यः श्रेयः।
(घ) छात्रैः क्रियमाणः अपव्ययः कः? आडम्बरयुक्तः प्रदर्शनात्मकः व्ययः।
(ङ) “जलबिन्दुनिपातेन क्रमशः पूर्यते घटः” इति वाक्यं कः अवदत्? चाणक्यः

Related Resources